इरिङ्गालक्कुटायां समादरणं, प्रमाणपत्रवितरणञ्च।

इरिङ्गालक्कुटा – विद्याभ्यासजिल्ला-अक्कादमिक-समितेः आभिमुख्ये  सामान्यविद्याभ्यासविभागस्य धिषणावृत्तिपरीक्षायां विद्याभ्यासजिल्लास्तरीयाणां विजेतृृणां छात्राणां कृते प्रमाणपत्रवितरणं, नववाण्याः स्थापकस्य श्री जोस् महोदयस्य कृते समादरणं, सेवनात् विरामं प्राप्तस्य संस्कृताध्यापकस्य गोपालकृष्णस्य कृते पुरस्कारसमर्परणं च संयुक्ततया अत्र बि.आर्.सि. हाल् मध्ये आयोजितायां घटनायामद्य सुसम्पन्नम्। घटनायामस्यां इरिङ्गालक्कुटा विद्याभ्यासजिल्लाधिकारिणी श्रीमती उषाराणी महाभागा आध्यक्ष्यमावहत्। भागवतश्री वि.बि. माधवन् नम्पूतिरिः अधिवेशनस्य उद्घाटनं विशिष्टातिथीनां समादरणं च कृतवान्। कौण़्सिल् कार्यदर्शी के.डि. बिजुः स्वागतभाषणं कृतवान्  श्री टि.टि.के भरतः सुरेष् बाबुः, रामचन्द्रः, हिविन् राज्, एं.बि. अशोकः प्रभृतयः भाषणमकुर्वन्।

Leave a Reply

Your email address will not be published. Required fields are marked *