अभियाचनाः अङ्गीकृताः, महाराष्ट्रायां कृषकप्रक्षोभः प्रत्याकृष्टः।

मुम्बै- कृषकाणाम् अभियाचनाः अवश्यं परिगणनीयाः इति सर्वकारस्य वाग्दानात् पश्चात् महाराष्ट्रायां कृषकैरायोजितः प्रक्षोभः समापितः। मुख्यमन्त्रिणा देवेन्द्रफट्नाविस् वर्येण सह कृषकाणां प्रतिनिधयः चर्चायां भागं गृहीताः। चर्चानन्तरं रूपवत्कृतायाः समयायाः आधारेणैव प्रक्षोभः प्रत्याकृष्टः। कृषकैरुन्नीतानि आवश्यकानि प्रायः सर्वाणि अङ्गीकृतानि इति मुख्यमन्त्री देवेन्द्र फट्नाविस् वर्यः अवोचत्।
महाराष्ट्रायां नासिक् देशात् षष्ठे दिनाङ्के आरभ्य १८० किलोमीट्टर् दूरं पथसञ्चलनं कृत्वैव कृषकाः मुम्बैमहानगरं प्राप्ताः। समरस्य आलम्बः अङ्गबलं च वर्धमानम् अनुपश्यैव कर्षकनेतारः चर्चार्थमाहुताः। कर्षकसभायाः आबालवृद्धं जनाः प्रक्षोभे भागं गृहीताः आसन्।

Leave a Reply

Your email address will not be published. Required fields are marked *