अमेरिक्कायां भारतवंशीयाय शास्त्रज्ञाय सार्धसप्तकोटिरूप्यकाणां पुरस्कारः।

टेक्सास्- भारतीयवंशजाय नवीन् वरदराज इति शास्त्रज्ञाय अमेरिक्कायाम् अर्बुदचिकित्सासम्बन्धिनः प्रबन्धस्य कृते ११ लक्षं डोलर् मूल्यकः पुरस्कारः प्रख्यापितः। टेक्सास् कान्सर् प्रिवन्षन् आन्ट् रिसर्च इन्स्टिट्यूट् इति संस्थया पुरस्कारः प्रख्यापितः। तस्मादृते सङ्क्यूङ् चुङ् इति शास्त्रज्ञो/पि पुरस्कृतः। नवीन् वरदराजाय ११७३४२० डोलर्- माकिं ७.६५ कोटि रूप्यकाणि- पुरस्कारत्वेन दीयते। हूस्टण् विश्वविद्यालये केमिक्कल् आन्ट् बयो मोलिक्यूलेर्स इन्जिनीयरिङ् विभागे उपप्राध्यापकः भवति नवीन् वरदराजः।

One Response to अमेरिक्कायां भारतवंशीयाय शास्त्रज्ञाय सार्धसप्तकोटिरूप्यकाणां पुरस्कारः।

  1. Lakshmi says:

    Very nice

Leave a Reply

Your email address will not be published. Required fields are marked *