अरुविप्पुरे श्रीनारायणगुरुदेवेन कृता शिवप्रतिष्ठा सामाजिकविप्लवस्य कारणभूता अभवत्।

पत्तनंतिट्टा – अरुविप्पुरे श्रीनारायणगुरुदेवेन कृता प्रतिष्ठा सामाजिकपरिवर्तनस्य कारणभूता जाता इति मुख्यमन्त्री पिणरायि विजयः अब्रवीत्। केरलेषु ब्राह्मणेतराणाम् अर्चकरूपेण नियुक्ति एतस्यानन्तरफलत्वेन द्रष्टव्या इत्यपि सो/वदत्। पत्तनंतिट्टा माटमण् श्रीनारायणाधिवेशनस्य समापनसत्रम् उद्घाटयन्नासीत् मुख्यमन्त्री। केवलं ब्राह्मणानां कृते एव आराधनास्वातन्त्र्ययुक्ते कालघट्टे श्रीनारायणगुरुदेवः अरुविप्पुरे शिवप्रतिष्ठां व्यदधात्। एतत् कर्म सामाजिकविप्लवस्य निदानमभवत्। अस्मिन्नेव पथि चरन् सर्वेषां जातिविभागानां कृते अर्चनाय अवकाशः दत्तः इति मुख्यमन्त्री अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *