स्वास्थ्य,भवननिर्माणरङ्गे केरलराज्यम् आदर्शभूतम् – राज्यपालः।

तिरुवनन्तपुरम् – स्वास्थ्यरङ्गे भवननिर्माणरङ्गे च केरलराज्यम् इतरेषां राज्यानाम् मातृका भवतीति राज्यपालः पी. सदाशिवंवर्यः अवदत्। गणतन्त्रदिवसमालक्ष्य अनन्तपुरे सचिवालयक्रीडाङ्गणे  ध्वजारोहणानन्तरं सेनाविन्यासम् अभिसम्बोधयन् भाषमाण आसीदयम्। केरलप्रशासनं विकसनकार्ये/पि इतरेषाम् आदर्शभूतमित्यपि स न्यगादीत्।

     राजनैतिकः धार्मिको वा विद्वेषः तथा आतङ्कवादश्च प्रजातन्त्रे न हि भूयात्। दरिद्रराष्ट्रम् इत्यवस्थातः प्रगतेः सोपानमारुरोह भारतम्। दारिद्र्यम् उन्मूलयितुं श्रम एव अधुना प्रचलति। भक्ष्योत्पादनरङ्गे भारतम् विश्वस्य मातृका इति राज्यपालः समसूचयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *