श्वः केरलराज्ये यन्त्रयानानां कर्मन्यासः।

तिरुवनन्तपुरम् – अग्नितैलोत्पन्नानाम् अनियन्त्रितं मूल्यवर्धनं प्रतिषिध्य केरलराज्ये श्वः यन्त्रयानानां कर्मन्यासः आयोजितः। प्रातः षट्वादनतः सायं षट्वादनपर्यन्तमेव कर्मबन्धनम्। कर्मकरसङ्गाः कर्मस्वामिनश्च सम्भूय समरं कुर्वन्ति। केरल राज्य यातायात निगमस्थाः कर्मकराः अपि कर्मन्यासे भागं भजिष्यन्ति। महात्मगान्धी विश्वविद्यालये श्वस्तनाः परीक्षाः विलम्बिताः परीक्षायाः नूतनी समयसरणिः पृथक् सूचयिष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *