संस्कृतोत्सवे ४०मिताङ्कैः सह कोषिक्कोट् अग्रिमस्थाने।

तृशिवपुरम् – ५८तम स्कूल् कलोत्सवस्य संस्कृतोत्सव-स्पर्धासु इतःपर्यन्तं प्रसिद्धीकृतेषु स्पर्धाविभागेषु आहत्य ४० अङ्कैः सह कोषिक्कोट् जिल्ला अग्रिमस्थाने वर्तते। द्वितीयस्थाने  एरणाकुलम्(३८), तृतीयस्थाने पालक्काट् कण्णूर् जिल्ले च समानाङ्केः सह  (३६) वर्तेते। सामान्यविभागे सुवर्णचषकाय पालक्काटु जिल्ला इदनीं २०१ लब्ध्वा प्रथमस्थाने वर्तते।

Leave a Reply

Your email address will not be published. Required fields are marked *