संस्कृतोत्सवस्य शुभारम्भः।
![](https://navavani.org.in/wp/wp-content/uploads/2018/01/IMG_20180106_123841-300x225.jpg)
तृशिवपुरम् – ५८तम केरला-स्कूल-कलोत्सवस्य प्रथमदिने अद्य विवेकोदयं उच्चतरविद्यालयस्थ-वेदिकासु (६,८) संस्कृतोत्सवस्य शुभारम्भः। नीर्मरुतनामिकायां वेदिकायामिदानीं उच्चविद्यालयीयबालकानां पाठकस्पर्धा प्रचलति। तदनन्तरं समानस्तरीयाणांं बालिकानां स्पर्धाा भविष्यति।
अस्मिन्नेव विद्यालये अन्यस्मिन् स्थले रचनास्पर्धाः प्रचलन्ति।
Leave a Reply