पुनत्तिल् कुञ्ञब्दुल्ला वर्यः दिवंगतः।

कोषिक्कोट् – विख्यातः कैरलीसाहित्यकारः पुनत्तिल् कुञ्ञब्दुल्ला महाशयःपञ्चत्वमगात्। भिषग्वरः आसीदयं कैरलीसाहित्ये स्वकीयया शैल्या पृथक् पन्थानमुदघाटयत्। बहवः लघुकथाः आख्यायिकाश्च अनेन विरचिताः। वार्धक्ये स्वगृहे विश्रान्तः आसीत्। कोषिक्कोट् नगरस्थे एकस्मिन् वैयक्तिकचिकित्सालये आसीत् अस्य अन्त्यम्।

Leave a Reply

Your email address will not be published. Required fields are marked *