जातीयस्पर्धासंवर्धकेषु विषयेषु तीव्रा कर्मचेष्टा आवश्यकी-मुख्यमन्त्री।

तिरुवनन्तपुरम्- जातीयस्पर्धासंवर्धकेषु विषयेषु त्वरिता कर्मचेष्टा स्वीकर्तव्या इति केरलमुख्यमन्त्री श्री पिणरायि विजयः उक्तवान्। नवमाध्यमेषु एतादृशव्यवहारः वर्धयन्नस्ति। जिल्लासंविधानपरिषदः रक्षिदलं च एकीभूय एतादृशप्रवर्तनेषु निरतान् प्रतिनिवर्तयितुं प्रयतेरन् इत्यपि स अवादीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *