केरलस्य धर्मनिरपेक्ष-संस्कृतपठनम् – विचारसभा।

इरिङ्गालक्कुटा – श्री शङ्कराचार्यसंस्कृतसर्वकलाशालायाः साहाय्येन केरलस्य धर्मनिरपेक्ष-संस्कृतपठनमित्यस्मिन् विषये नटवरम्ब् उच्चतरविद्यालये विचारसभा सुसम्पन्ना। डो. एम्.वि. नटेशः कार्यक्रमस्यास्य उद्घाटनं विषयावतरणञ्चाकरोत्। सन्दर्भे∫स्मिन् संस्कृतस्य कृते योगदानं पुरस्कृत्य सि.वि. जोस्, अम्बिका, अरविन्दाक्षप्रभृतयः समादृताः। प्रधानाध्यापिका पि.एम् ऱोसी स्वागतभाषणं,  पि.टि.ए अध्यक्षः एम्.के मोहनः अध्यक्षभाषणं, सि.सि. सुरेष् बाबु कृतज्ञताभाषणं च अकुर्वन्।

दृश्यानि

Leave a Reply

Your email address will not be published. Required fields are marked *