केरऴान् अभिनन्द्य राष्ट्रपतिः।

कोल्लम्.  केरलदेशं संघर्षभरितराज्यमिति भा.ज.पा. दलस्य तीव्रहिन्दुत्वदलानां च प्रचारणाभ्यन्तरे राष्ट्रपतिः श्री. रामनाथकोविन्दः केरलान् मुक्तकण्ठं प्राशंसयत्। धर्मसौहार्दस्य धर्मनिरपेक्षतायाः साहोदर्यस्य च उत्तमोदाहरणं भवति केरशदेशः देशवासिनश्च इति स प्रत्यपादयत्। कोल्लम् अमृतपुर्यां अमृतानन्दमयीदेव्याः चतुष्षष्टितमस्य जन्मदिनसमारोहस्य उद्घाटनं विधाय भाषमाणः आसीत् सः। तस्मिन्नन्तरे राष्ट्रपते‌ः स्वीकरणवेलायां शिष्टाचारः न पालितः इत्याक्षिप्य विपक्षदलनेता रमेश् चेन्नित्तला वर्यः राष्ट्रपतये निवेदनमदात्।

Leave a Reply

Your email address will not be published. Required fields are marked *