राष्ट्रस्य आर्थिकविकासमानम् अधोगतिं प्राप्नोतीति प्रधानमन्त्रिणा अङ्गीकृतम्

नवदिल्ली- राष्ट्रस्य आर्थिकविकासमानम् अधोगतिं प्राप्नोतीति प्रधानमन्त्रिणा अङ्गीकृतम्। आर्थिकवर्षस्य एप्रिल्-जूण् पादे विकासमानं न्यूनमभवत्। विकासस्य प्रत्यानयनाय सर्वकारः प्रतिज्ञाबद्धः इति स अब्रवीत्। क्रमशः वर्षत्रयं ७.५ शतमितम् आर्थिकविकासं वयं सम्पादितवन्तः। परन्तु एप्रिल्-जूण् पादे विकासस्य न्यूनता अभवत्। स एव विकासः प्रत्यानयनीयः इत्यपि सः अवदत्। नवदिल्यां ऐ.सी.एस्.ऐ. सुवर्णजयन्ती समारोहे भाषमाणः आसीत् सः। रिजर्व बैङ्क् अधिकारिणः एतत्सम्बन्धि प्रस्तावस्य पश्चादासीत् प्रधानमन्त्रिणः इयं प्रस्तावना।

Leave a Reply

Your email address will not be published. Required fields are marked *