अमेरिकायां गोलिकावर्षणम् – ५० मृताः।

लास् वेगस् – अमेरिकायां लास् वागस-स्थे संगीतकार्यक्रमे ह्यो दुरापादिते भीषणे गोलिकावर्षणे न्यूनान्न्यूनाः ऊनषष्टिर्जनाः मृताः, सप्तविशत्यधिकाः पञ्चशतं च क्षताः संजाताः सूच्यन्ते। कश्चन आतङ्कवादी मुक्ताकाशे प्रवर्तमाने संगीतकार्यक्रमे समवेतान् जनान् लक्षीकृत्य सहसा अविरलं गोलिकावर्षणम् आरब्धवान्।

Leave a Reply

Your email address will not be published. Required fields are marked *