रेलयात्रासुरक्षा ‘इसरो’ साहाय्येन।

नवदिल्ली – रेलमन्त्री पीयुषगोयलः अब्रवीत् यत् रेलयात्रां भूयो∫पि सुरक्षान्वितां विधातुं सुरक्षोपायानाम् अन्वेषणार्थं रेलविभागः अन्तरीक्षानुसन्धानसंघटनेन सह संभूय कार्यमाचरति। श्री गोयलः व्याहरत् यदसौ विषये∫स्मिन् कतिपयदिवसपूर्वं भारतीयान्तरीक्षानुसन्धानसंघटनस्य अध्यक्षं ए.एस् किरणकुमारम् अमिलत्।

Leave a Reply

Your email address will not be published. Required fields are marked *