दूरदर्शनस्य भौमसम्प्रेषणं परिसमाप्यते।

नवदिल्ली – २०१७ वर्षान्त्येन दूरदर्शनस्य भौमसम्प्रेषणं समाप्तिम् एष्यति। शुक्रवासरे प्रवृत्ते प्रसार् भारती संसंथायाः उन्नते अधिवेशने अयं निर्णयः जातः। पूर्वम् एतदर्थं पर्यालोचना प्रवृत्ता तथापि निर्णयो न जातः। अधुना ट्विट्टर् माध्यमेन प्रसार् भारती अधिकृतैः एष निर्णयः प्रकाशितः। भौमसम्प्रेषणस्य प्रेक्षकाणां न्यूनता तथा राष्ट्रस्य विविधभागस्थानां सम्प्रेषणस्तूपानां परिपालनाय अधिकव्ययश्च एतस्य निर्णयस्य हेतुः। राष्ट्रे १४१२ भौमस्तूपाः इतःपर्यन्तं प्रसार् भारती संस्थया स्थापिताः।

Leave a Reply

Your email address will not be published. Required fields are marked *