संस्कृतपण्डितस्य श्रीमतः रामचन्द्रमहोदयस्य कृते समादरः।

कल्पट्टा – केरलीय – संस्कृतमण्डले जाज्वल्यमानाय संस्कृतपण्डिताय श्री एन.के. रामचन्द्राय केरलीय–संस्कृतलोकस्य समादरणम्। १६–०९–२०१७ शनिवासरे रज्यस्तरीय–संस्कृतदिनाघोषस्य वेदिकायाम्  आधुनिक–संस्कृतपण्डितेषु प्रमुखः, वयनाटु – विद्याभ्यासजिल्लाधिकारिस्थानात् विरामं प्राप्तः च अयं  समाद्रियते  इति वार्ता अस्माकं महतः सन्तोषस्य विषयः।  रामचन्द्रमहोदयस्य कृते नववाण्याः सादरप्रणामः।

Leave a Reply

Your email address will not be published. Required fields are marked *